(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.190. अध्यायः 190
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरादीन्प्रति मत्स्यरूपिणो हरेर्वैवस्वतमनोश्च चरितप्रतिपादकमस्योपाख्यानकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-190-0x(2388)(23214)
ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह।
कथयस्वति चरितं मनोर्वैवस्वतस्य च ॥ 3-190-1(23215)
मार्कण्डेय उवाच। 3-190-2x(2389)
विवस्वतः सुतो राजन्महर्षिः सुप्रतापवान्।
बभूव नरशार्दूल प्रजापतिसमद्युतिः ॥ 3-190-2(23216)
ओजसातेजसा लक्ष्म्या तपसा च विशेषतः।
अतिचक्राम पितरं मनुः स्वंच पितामहम् ॥ 3-190-3(23217)
ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः।
एकपादस्थितस्तीव्रं चकार सुमहत्तपः ॥ 3-190-4(23218)
अवाकूशिरास्तथा चापि नेत्रैरनिमिषैर्दृढम्।
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ॥ 3-190-5(23219)
तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम्।
चीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥ 3-190-6(23220)
भगवन्क्षुद्रमत्स्येस्मि बलवद्भ्यो भयंमम।
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ॥ 3-190-7(23221)
दुर्बलं बलवन्तो हि मत्स्या मत्स्यं विशेषतः।
भक्षयन्ति सदा वृत्तिर्विहिता नः सनातनी ॥ 3-190-8(23222)
तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः।
त्रातुमर्हसि कर्तास्मि कृतेप्रतिकृतं तव ॥ 3-190-9(23223)
स मत्स्यवचनं श्रुत्वा कृपयाऽभिपरिप्लुतः।
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥ 3-190-10(23224)
उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः।
अलिञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभम् ॥ 3-190-11(23225)
स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः।
पुत्रवत्स्वीकरोत्तस्मै मनुर्भावं विशेषतः ॥ 3-190-12(23226)
अथ कालेन महता स मत्स्यः सुमहानभूत्।
अलिञ्जरजले चैव नासौ समभवत्किल ॥ 3-190-13(23227)
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत।
भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय ॥ 3-190-14(23228)
उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मनुः।
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥ 3-190-15(23229)
तत्रतं प्राक्षिपच्चापि मनुः परपुरंजय।
अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ॥ 3-190-16(23230)
द्वियोजनायता वापी विस्तृताचापि योजनम्।
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन ॥ 3-190-17(23231)
विचेष्टितुं च कौन्तेय मत्स्यो वाप्यां विशांपते।
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत ॥ 3-190-18(23232)
नय मां भगवन्साधो समुद्रमहिषीं प्रियाम्।
गङ्गां नांत्रापि शक्तोस्मि वस्तुं मतिमतांवर ॥ 3-190-19(23233)
निदेशे हि मया तुभ्यं स्थातव्यमनसूयता।
वृद्धिर्हि परमा प्राप्ता त्वत्कृते हि मयाऽनघ ॥ 3-190-20(23234)
एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी।
नदीं गङ्गां तत्रचैनं स्वयं प्राक्षिपदेव च ॥ 3-190-21(23235)
स तत्र ववृधे मत्स्यः कंचित्रालमरिंदम।
गतः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ॥ 3-190-22(23236)
गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो।
समुद्रं नय मामाशु प्रसीद भगवन्निति ॥ 3-190-23(23237)
उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम्।
समुद्रमनयत्पार्त तत्रचैनमवासृजत् ॥ 3-190-24(23238)
सुमहानपि मत्स्यस्तु स मनोर्नयतस्तदा।
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ॥ 3-190-25(23239)
यदा समुद्रे प्रक्षिप्तः स मत्स्यो ननुना तदा।
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥ 3-190-26(23240)
भगवन्हि कृता रक्षा त्वया सर्वा विशेषतः।
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ॥ 3-190-27(23241)
अचिराद्भगवन्बौममिदं स्थावरजङ्गमम्।
सर्वमेव महाभाग प्रलयं वै गमिष्यति ॥ 3-190-28(23242)
संप्रक्षालनकालोऽयंलोकानां समुपस्थितः।
तस्मात्त्वां बोधयाम्यद्ययत्ते हितमनुत्तमम् ॥ 3-190-29(23243)
त्रसानां स्तावराणां च यच्चेङ्गं यच्च नेङ्गति।
तस्य सर्वस् संप्राप्तः कालः परमदारुणः ॥ 3-190-30(23244)
नौश्च कारयितव्या ते दृढा युक्तवटारका।
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ॥ 3-190-31(23245)
बीजानि चैव सर्वाणि यथोक्तानि मया पुरा।
तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः ॥ 3-190-32(23246)
नौस्थश्च मां प्रतीक्षेथास्ततो मुनिजनप्रिय।
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥ 3-190-33(23247)
एवमेतत्त्वया कार्यमापृष्टोसि व्रजाम्यहम्।
ता न शक्या महत्यो वै आपस्तर्तुं मया विना।
नातिशङ्क्यमिदं चापि वचनं मे त्वया विभो ॥ 3-190-34(23248)
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत।
जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् ॥ 3-190-35(23249)
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह।
बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा।
नौकया शुभयावीर महोर्मिणमरिंदम ॥ 3-190-36(23250)
चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते।
सच तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय।
शृङ्गी तत्राजगागाशु तदा भरतसत्तम ॥ 3-190-37(23251)
तं दृष्ट्वा मनुजव्याघ्र मनुर्मत्स्यं जलार्णवे।
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ॥ 3-190-38(23252)
वटारकमयं पाशमथ मत्स्यस्य मूर्धनि।
मनुर्मनुजशार्दूल तस् शृङ्गे न्यवेशयत् ॥ 3-190-39(23253)
संयतस्तेन पाशेन मत्स्यः परपुरंजय।
वेगेन महता नावं प्राकर्षल्लवणाम्भसि ॥ 3-190-40(23254)
स ततार तया नावा समुद्रं मनुजेश्वर।
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा ॥ 3-190-41(23255)
क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ।
घूर्णते चपलेव स्री मत्ता परपुरंजय ॥ 3-190-42(23256)
नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे।
सर्वं सलिलमेवासीत्खं द्यौश्च नरपुङ्गव ॥ 3-190-43(23257)
एवंभूते तदा लोके संकुले भरतर्षभ।
अदृश्यन्त सप्तर्षयो मनुर्मत्स्यस्तथैव च ॥ 3-190-44(23258)
एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः।
चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसंचये ॥ 3-190-45(23259)
ततो हिमवतः शृङ्गं यत्परं भरतर्षभ।
तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन ॥ 3-190-46(23260)
अथाब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः।
अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् ॥ 3-190-47(23261)
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ।
नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा ॥ 3-190-48(23262)
तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम्।
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ ॥ 3-190-49(23263)
अथाब्रवीदनिमिषस्तानृषीन्सहितस्तदा।
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते।
मत्स्यरूपेण यूयं च मयाऽस्मान्मोक्षिता भयात् ॥ 3-190-50(23264)
मनुना च प्रजाः सर्वाः सदेवासुरमानुपाः।
स्रष्टव्याः सर्वलोकाश्चयच्चेङ्गं यच्चा नेङ्गति ॥ 3-190-51(23265)
तपसा चापि तीव्रेण प्रतिभाऽस्य भविष्यति।
मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति।
इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः ॥ 3-190-52(23266)
स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम्।
प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः ॥ 3-190-53(23267)
तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे।
सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ ॥ 3-190-54(23268)
इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम्।
आख्यानमिदमाख्यातं सर्वपापहरं मया ॥ 3-190-55(23269)
य इदं शृणुयान्नित्यं मनोश्चरितमादितः।
स सुखी सर्वपूर्णार्थः सर्वलोकमियान्नरः ॥ 3-190-56(23270)

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि नवत्यधिकशततमोऽध्यायः ॥ 190 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-190-6 चीरिणीनदीविशेषः ॥ 3-190-11 अलिञ्जरे मणिकाख्यपात्रे ॥ 3-190-13 न समभवत्स्थूलत्वेन न ममावित्यर्थः ॥ 3-190-30 त्रसानां जङ्गमानाम्। इङ्गं चलनशीलं वृक्षादि। नेङ्गति पाषाणादि। कालोऽन्तः ॥ 3-190-31 वटारका रज्जुः ॥ 3-190-32 यथोक्तानि द्विजैः पुरा इति झ. पाठः ॥ 3-190-41 सच तांस्तारयन्नावा इति झ. पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.